वांछित मन्त्र चुनें

आ त्वा॑हार्षम॒न्तरे॑धि ध्रु॒वस्ति॒ष्ठावि॑चाचलिः । विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु॒ मा त्वद्रा॒ष्ट्रमधि॑ भ्रशत् ॥

अंग्रेज़ी लिप्यंतरण

ā tvāhārṣam antar edhi dhruvas tiṣṭhāvicācaliḥ | viśas tvā sarvā vāñchantu mā tvad rāṣṭram adhi bhraśat ||

पद पाठ

आ । त्वा॒ । अ॒हा॒र्ष॒म् । अ॒न्तः । ए॒धि॒ । ध्रु॒वः । ति॒ष्ठ॒ । अवि॑ऽचाचलिः । विशः॑ । त्वा॒ । सर्वाः॑ । वा॒ञ्छ॒न्तु॒ । मा । त्वत् । रा॒ष्ट्रम् । अधि॑ । भ्र॒श॒त् ॥ १०.१७३.१

ऋग्वेद » मण्डल:10» सूक्त:173» मन्त्र:1 | अष्टक:8» अध्याय:8» वर्ग:31» मन्त्र:1 | मण्डल:10» अनुवाक:12» मन्त्र:1


बार पढ़ा गया

ब्रह्ममुनि

स सूक्त में राजा शासन अधिकार प्राप्त करके प्रजा को सुखी करे, राष्ट्र को दृढ़ समृद्ध करे, उस में अन्य राज्याधिकारियों विद्वानों के साथ सुराज्य बनावे, इत्यादि विषय हैं।

पदार्थान्वयभाषाः - (त्वा) हे राजन् ! मैं पुरोहित राजसूययज्ञ में तुझे राष्ट्र के स्वामी होने के लिये राजसूयवेदी पर (आहार्षम्) लाया हूँ-लाता हूँ (अन्तः-एधि) हमारे मध्य में स्वामी हो (ध्रुवः) ध्रुव (अविचाचलिः-तिष्ठ) राजपद पर नियत-अविचलित हुआ प्रतिष्ठित हो (सर्वाः-विशः) सारी प्रजाएँ (त्वा वाञ्छन्तु) तुझे चाहें चाहती हैं (त्वत्-राष्ट्रम्) तुझसे-तेरे शासन से राष्ट्र (मा-भ्रशत्) नष्ट न हो ॥१॥
भावार्थभाषाः - पुरोहित राजा को राजसूययज्ञ में वेदी पर प्रतिष्ठित करता है और सारी प्रजाएँ उसे चाहें, राजा को इस प्रकार शासन करना चाहिये कि प्रजाएँ सब सुखी रहें, प्रसन्न रहें और राष्ट्र विपत्ति को प्राप्त न हो ॥१॥
बार पढ़ा गया

ब्रह्ममुनि

अत्र सूक्ते राजा शासनाधिकारं प्राप्य प्रजाः सुखयेत् राष्ट्रं दृढं समृद्धं कुर्यात् तत्रान्यै राज्याधिकारिभिः विद्वद्भिः सह च सुराज्यं कुर्यादित्येवं विषयाः सन्ति।

पदार्थान्वयभाषाः - (त्वा-आहार्षम्) हे राजन् ! अहं पुरोहितो राजसूये यज्ञे त्वां राष्ट्रस्य स्वामित्वाय राजसूयवेद्यामानयम्-आनयामि (अन्तः-एधि) अस्माकं मध्ये स्वामी भव (ध्रुवः-अविचाचलिः-तिष्ठ) ध्रुवराजपदे नियतः प्रतिष्ठितो भव “यद्वै स्थिरं यत्प्रतिष्ठितं तद्ध्रुवम्” [श० ८।२।१।४] भृशमविचलः “चल धातोर्यङ्लुगन्तादौणादिक इ प्रत्ययः” राष्ट्रमधितिष्ठ (सर्वाः-विशः-त्वा वाञ्छन्तु) सर्वाः प्रजास्त्वां कामयन्ते लडर्थे लोट् व्यत्ययेन (त्वत्-राष्ट्रं मा-भ्रशत्) त्वत्तो त्वच्छासनाद्राष्ट्रं न भ्रश्येत-भ्रष्टं न भवतु ॥१॥